(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.62. अध्यायः 062
Mahabharata - Udyoga Parva - Chapter Topics
कर्णेन धृतराष्ट्रमनादृत्य पाण्डवहननप्रतिज्ञानम् ॥ 1 ॥ तथा भीष्माधिक्षिप्तेन तेन युद्धे भीष्मशमनावधि शस्त्रन्यासं प्रतिज्ञाय स्वभवनगमनम् ॥ 2 ॥ भीष्मेण प्रत्यहं अयुतयोधवधप्रतिज्ञा ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text

वैशम्पायन उवाच। 5-62-0x(3581)(34158)
तथा तु पृच्छन्तमतीव पार्थं
वैचित्रवीर्यं तमचिन्तयित्वा।
उवाच कर्णो धृतराष्ट्रपुत्रं
प्रहर्षयन्संसदि कौरवाणाम् ॥ 5-62-1(34159)
मिथ्या प्रतिज्ञाय मया यदस्त्रं
रामात्कृतं ब्रह्ममयं पुरस्तात्।
विज्ञाय तेनास्मि तदैवमुक्त-
स्ते नान्तकाले प्रतिभास्यतीति ॥ 5-62-2(34160)
महापराधे ह्यपि यन्न तेन
महर्षिणाऽहं गुरुणा च शप्तः ।
शक्तः प्रदग्धुं ह्यपि तिग्मतेजाः
ससागरामप्यवनिं महर्षिः ॥ 5-62-3(34161)
प्रसादितं ह्यस्य मया मनोऽभू-
च्छुश्रूषया स्वेन च पौरुषेण
तदस्ति चास्त्रं मम सावशेषं
तस्मात्समर्थोऽस्मि ममैष भारः॥ 5-62-4(34162)
निमेषमात्रात्तमृषेः प्रसाद-
मवाप्य पाञ्चालकरूशमत्स्यान्।
निहत्य पार्थान्सह पुत्रपौत्रै-
र्लोकानहं शस्त्रजितान्प्रपत्स्ये॥ 5-62-5(34163)
पितामहस्तिष्ठतु ते समीपे
द्रोणश्च सर्वे च नरेन्द्रमुख्याः ।
ऋषिप्रसादेन बलेन गत्वा
पार्थान्हनिष्यामि ममैष भारः ॥ 5-62-6(34164)
एवं ब्रुवन्तं तमुवाच भीष्मः
किं कत्थसे कालपरीतबुद्धे।
न कर्ण जानासि यथा प्रधाने
हते हताः स्युर्धृतराष्ट्रपुत्राः ॥ 5-62-7(34165)
यत्खाण्डवं दाहयता कृतं हि
कृष्णद्वितीयेन धनञ्जयेन।
श्रुत्वैव तत्कर्म नियन्तुमात्मा
युक्तस्त्वया वै सहबान्धवेन ॥ 5-62-8(34166)
यां चापि शक्तिं त्रिदशाधिपस्ते
ददौ महात्मा भगवान्महेन्द्रः।
भस्मीकृतां तां समरे विशीर्णां
चक्राहतां द्रक्ष्यसि केशवेन ॥ 5-62-9(34167)
यस्ते शरः सर्पमुखो विभाति
सदाऽग्र्यमाल्यैर्महितः प्रयत्नात्।
स पाण्डुपुत्राभिहतः शरौघैः
सह त्वया यास्यति कर्ण नाशम् ॥ 5-62-10(34168)
बाणस्य भौमस्य च कर्ण हन्ता
किरीटिनं रक्षति वासुदेवः ।
यस्त्वादृशानां च वरीयसां च
हन्ता रिपूणां तुमुले प्रगाढे ॥ 5-62-11(34169)
कर्ण उवाच। 5-62-12x(3582)
असंशयं वृष्णिपतिर्यथोक्त-
स्तथा च भूयांश्च ततो महात्मा।
अहं यदुक्तः परुषं तु किंचि-
त्पितामहस्तस्य फलं शृणोतु ॥ 5-62-12(34170)
न्यस्यामि शस्त्राणि न जातु सङ्ख्ये
पितामहो द्रक्ष्यति मां सभायाम्।
त्वयि प्रशान्ते तु मम प्रभावं
द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः ॥ 5-62-13(34171)
वैशम्पायन उवाच। 5-62-14x(3583)
इत्येवमुक्त्वा स महाधनुष्मान्
हित्वा सभां स्वं भवनं जगाम ।
भीष्मस्तु दुर्योधनमेव राजन्
मध्ये कुरूणां प्रहसन्नुवाच ॥ 5-62-14(34172)
सत्यप्रतिज्ञः किल सूतपुत्र-
स्तथा कस भारं विषहेत कस्मात्।
व्यूहं प्रतिव्यूह्य शिरांसि भित्त्वा
लोकक्षयं पश्यत भीमसेनात् ॥ 5-62-15(34173)
आवन्त्यकालिङ्गजयद्रथेषु
चेदिध्वजे तिष्ठति बाह्लिके च।
अहं हनिष्यामि सदा परेषां
सहस्रशश्चायुतशश्च योधान् ॥ 5-62-16(34174)
यदैव रामे भगवत्यनिन्द्ये
ब्रह्मब्रुवाणः कृतवांस्तदस्त्रम्।
तदैव धर्मश्च तषश्च नष्टं
वैकर्तनस्याधमपूरुषस्य ॥ 5-62-17(34175)
वैशम्पायन उवाच। 5-62-18x(3584)
तथोक्तवाक्ये नृपतीन्द्र भीष्मे
निक्षिप्य शस्त्राणि गते च कर्णे।
वैचित्रवीर्यस्य सुतोऽल्पबुद्धि-
र्दुर्योधनः शान्तनवं बभाषे ॥ ॥ 5-62-18(34176)

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि द्विषष्टितमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-62-1 तथेति पार्थं पृच्छन्तं वैचित्रवीर्यं अचिन्तयित्वेति संबन्धः ॥ 5-62-4 सावशेषं मम आयुरस्ति। अतोऽन्तकालस्यानुपस्थितत्वात्तदस्त्रं ममास्तीति अहं समर्थोऽस्मि अर्जुनं जेतुमित्यर्थः ॥ 5-62-5 प्रपत्स्ये प्रापयिष्ये ॥ 5-62-7 प्रधाने त्वयि हते सति सर्वे हताः स्युरत आत्मानं गोपायेत्युपहासः ॥ 5-62-17 ब्रह्मब्रुवाणः ब्राह्मणोऽहमिति वदन् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.